तृण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृण, द ञ उ भक्षे । इति काविकल्पद्रुमः ॥ (तनां- उभं-सकं-सेट् । क्त्वावेट् ।) द ञ, तृणोति तर्णोति तृणुते तर्णुते । उ, तर्णित्वातृत्वा । इति दुर्गादासः ॥
तृणम्, क्ली, (तृण्यते भक्ष्यते गवादिभिरिति । तृण + घञ् । संज्ञापूर्ब्बकत्वात् न गुणः । यद्बा, तृह हिंसायाम् + “तृहेः क्नो हलोपश्च ।” उणां ५ । ८ । इति क्नप्रत्ययो हकारलोपश्च ।) नडादि । चिनाखड इति ख्यातम् । इति केचित् । इति भरतः ॥ तत्पर्य्यायः । अर्ज्जुनम् २ । इत्यमरः । २ । ५ । १६७ ॥ त्रिणम् ३ खटम् ४ खेट्टम् ५ हरितम् ६ ताण्डवम् ७ । इति शब्दरत्नावली ॥ * ॥ (यथा, पञ्चतन्त्रे । १ । ३४ । “जातस्य नदीकूले तस्य तृणस्यापि जन्म कल्याणम् । यत् सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥”) गोभ्यस्तृणदानफलं यथा, -- “तीर्थस्नानेषु यत् पुण्यं यत् पुण्यं विप्रभोजने । यत् पुण्यञ्च महादाने यत् पुण्यं हरिसेवने ॥ सर्व्वव्रतोपवासेषु सर्व्वेष्वेव तपःसु च । भुवः पर्य्यटने यत्तु सत्यवाक्येषु यद्भवेत् ॥ यत् पुण्यं सर्व्वयज्ञेषु दीक्षायाञ्च लभेन्नरः । तत् पुण्यं लभते प्राज्ञो गोभ्यो दत्त्वा तृणानि च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥ धनिष्ठादिपञ्चनक्षत्रेषु गृहनिमित्ततृणकाष्ठा- हरणे दोषा यथा, -- “अग्निचौरभयं रोगो राजपीडा धनक्षतिः । संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥” इति ज्योतिःसारसंग्रहः ॥ (गन्धद्रव्यविशेषः । रामकर्पूर इति भाषा ॥ अस्य पर्य्याया यथा, -- “कुतृणञ्च सुगन्धञ्च तृणं शीतं सुशीतलम् ॥” इति वैद्यकरत्नमालायाम् ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृण नपुं।
तृणम्
समानार्थक:तृण,तृण,अर्जुन,कक्ष
2।4।165।2।1
लामज्जकं लघुलयमवदाहेष्टकापथे। नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि॥
: कैवर्तीमुस्तकम्, स्पृक्का, जटामांसी, कर्चूरः, सूरणः, समष्ठिला, शाखाभेदः, दूर्वा, मुस्ता, वेणुः, गुन्द्रः, नडः, काशम्, बल्वजाः, इक्षुः, वीरणम्, दर्भः, रोहिषाख्यतृणविशेषः, तृणविशेषः, जलजतृणविशेषः, नूतनतृणम्, गवादिभक्ष्यतृणम्, कशेरुः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
तृण नपुं।
तृणम्
समानार्थक:तृण,तृण,अर्जुन,कक्ष
2।4।167।2।5
छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्.।
: कैवर्तीमुस्तकम्, स्पृक्का, जटामांसी, कर्चूरः, सूरणः, समष्ठिला, शाखाभेदः, दूर्वा, मुस्ता, वेणुः, गुन्द्रः, नडः, काशम्, बल्वजाः, इक्षुः, वीरणम्, दर्भः, रोहिषाख्यतृणविशेषः, तृणविशेषः, जलजतृणविशेषः, नूतनतृणम्, गवादिभक्ष्यतृणम्, कशेरुः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृण¦ भक्षे तना॰ उभ॰ सक॰ सेट्। तृणोति तर्णोति तृणुते-तर्णुते। अतर्णीत् अतर्णिष्ट। उदित् तर्णित्वा--तृण्ट्वा।
तृण¦ न॰ तृह--नक् हलोपश्च।
१ नडादौ, खटे (खड)। अमरः।
“तृणेन वात्येव तयाऽनुगम्यते” नैष॰।
“लघु-र्वहुतृणं नरः” माघः। तृणस्यायं शिवा॰ अण्। तार्ण तृणजन्ये वह्नौ पु॰
“तार्णातार्णोभयं नास्तीति” जगदीशः। तृणसम्पन्धिमात्रे त्रि॰। घोषादि॰ उत्तर-पदस्थे तृणशब्दे पूर्वपदमाद्युदात्तम्। ग्रामतृणमित्यादि। समूहार्ये पाशा॰ य। तृण्या तृण्समूहे स्त्री तत्रभवः। उत्करा॰ मत्वर्थे छ नडा॰ कुक् च। तृणकीयतृणभवे त्रि॰। स्वल्पं तृणं कन्। तृणक स्वल्पतृणे
“क्रीणीष्वेतास्तृण-केनापि राजन्!” भा॰ आ॰
९३ अ॰। स्वार्थे क। तत्रार्थे।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृण (उ) तृणु¦ r. 8th cl. (तर्णोति तर्णते or तृणोति तृणुते) To eat, especially grass, to graze. E. तना-उभ-सक-सेट् |
तृण¦ n. (-णं) Grass, any gramineous plant. E. तृह् to hurt, Unadi affix णक्, and ह rejected; what is consumed by cattle, &c.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृणम् [tṛṇam], [तृह्-नक् हलोपश्च Uṇ.5.8]
Grass in general; किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी Bh.2.29.
A blade of grass, reed, straw.
Anything made of straw (as a mat for sitting); often used as a symbol of worthlessness or uselessness; तृणमिव लघुलक्ष्मीर्नैव तान- संरुणद्धि Bh.2.17; see तृणीकृ also.
Comp. अग्निः a fire of chaff of straw; ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति Ms.3. 168.
fire quickly extinguished.
burning a criminal by twisting straw round his body and then setting it on fire. -अञ्जनः a chameleon. -अटवी a forest abounding in grass. -अन्नम् rice growing wild. -असृज् n.,-कुङ्कुमम्, -गौरम् a variety of perfume. -आवर्तः a whirlwind. -इन्द्रः the palmyra tree. -उल्का a torch of hay, a fire-brand made of straw. -ओकस् n. a hut of straw. -काण्डः, -ण्डम् a heap of grass. -कुटी, -कुटीर- कम् a hut of straw. -कूटम् a heap of straw. -कूर्चिका a whisk.
केतुः the palmyra tree.
a bamboo. -गणना thinking anything to be of no importance; यशसि रसिकता- मुपागतानां तृणगणना गुणरागिणां धनेषु Vikr.6.2. -गोधा a kind of chameleon. -ग्राहिन् m. a sapphire. -चरः a kind of gem (गोमेद). -जलायुका, -जलूका a caterpillar; यथा तृणजलूकेयं नापयात्यपयाति च । न त्यजेन्म्रियमाणो$पि प्राग्देहा- भिमतिं जनः ॥ Bhāg.4.29.77. -जम्भन् a. feeding on grass.-जातिः f. grass-kind, the vegetable kingdom; Ms.1 48. -ज्योतिस् n. the plant called ज्योतिष्मती; Ki.15. 47 com.
द्रुमः the palm tree.
the betel-nut tree.
the Ketaka tree.
the date-tree -धान्यम् grain growing wild or without cultivation (Mar. देवभात).
ध्वजः the palmyra tree.
a bamboo. -पीडम् hand-to-hand fighting; 'रज्जूकरणे तृणमिव यत्र बाह्वादिकं व्यावर्त्यते तद्युद्धम्' Mb.23.3.2 com. -पूलिक N. of a human abortion; Charaka 4.4.1. -पूली a mat, seat made of reeds. -प्राय a. worth a straw, worthless, insignificant. -बिन्दुः N. of a sage; R.8.79.-भुज् a. graminivorous; Ks.6. -भूत a. deprived of all power; Mb.7. -मणिः a sort of gem (amber).-मत्कुणः a bail or surety (perhaps a wrong reading for ऋणमत्कुण). -राज् m. the vine palm.
राजः the cocoa-nut tree.
the bamboo.
the sugarcane.
the palmyra tree.
वृक्षः the fanpalm tree.
the date-tree.
the areca-nut tree. -शालः the areca-nut tree, bamboo; तृणशालो राज- ताल्यां वेणौ Nm. -शीतम् a kind of fragrant grass. -शून्यम् N. of two plants केतकी and मल्लिका; तृणशून्यं तु मल्लिका Ak; परिलसत्तृणशून्यमतल्लिकापरिमलावहमारुतसेवितः Rām. Ch.4.32.-षट्पदः a kind of wasp (Mar. कुंभारीण). -सारा the plantain tree. -सिंहः an axe. -हर्म्यः a house of straw.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृण n. ( m. g. अर्धर्चा-दि; ifc. f( आ). )grass , herb , any gramineous plant , blade of grass , straw (often symbol of minuteness and worthlessness) RV. etc. ( ifc. accent g. घोषा-दि)
तृण m. N. of a man g. शिवा-दिand नडा-दि; ([ cf. Goth. thaurnus.])
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Tṛṇa, ‘grass,’ is often mentioned in the Rigveda[१] and later.[२] It was used as straw to roof in a house or hut.[३]